प्रदक्षिणा ज्योतिष दर्शन
।। अथ वार नामानि ।।
रवि: सोमस्तथा भौमो बुधो गीस्पतिरेव च ।
शुक्र: शनैश्चरश्चैव सप्त वारा: प्रकीर्तिता: ।।

।। अथ पक्षौ नामौ ।।
पूर्वापरं मासदलं पक्षौ नीलसिताभिधौ ।
आदौ शुक्ल: प्रवक्तव्य: केचित् कृष्णेऽपि मासके ।।

।।अथ तिथिनामानि ।।
प्रतिपद् द्वितीया चैव तृतीया तदनन्तरम् ।
चतुर्थी पञ्चमी तस्मात् षष्ठी चैव तत: परम् ।।
सप्तमी चाष्टमी चैव नवमी दसमी तथा ।
ततश्चैकादशी ज्ञेया द्वादशी च त्रयोदशी ।।
ततश्चतुर्दशी प्रोक्ता कृष्णानेऽमा प्रकीर्तिता ।
पूर्णिमा शुक्लपक्षान्ते तिथय: कथिता: बुधै: ।।

।। अथ योगनामानि ।।
विष्कुम्भ: प्रीतिरायुष्मान् सौभाग्य: शोभनस्तथा ।
अतिगण्ड: सुकर्मा च धृति: शूलस्तथैव च ।।
गण्डो वृद्धिर्ध्रुवश्चैव व्याघातो हर्षणस्तथा ।
वज्र: सिद्धिर्व्यतीपातो वरीयान् परिघ: शिव: ।।
सिद्धि: साध्य: शुभ: शुक्लो ब्रह्मैन्द्रो वैधृतिस्तत: ।
क्रमादेता योगसंख्या सप्तविंशति कीर्तिता: ।।
।। अथ करणनामानि ।।
ववाह्वयं वालव कौलवाख्ये ।
ततो भवेत्तैतिलनामधेयम् ।।
गराभिधानं वणिजं च विष्टी ।
रित्याहुरार्या: करणानि सप्त ।।
चतुर्दशी या शशिना विहीना ।
तदर्धभागे शकुनिर्द्वितीये ।।
दर्शार्धयो स्तश्चतुरङ्घृनागौ ।
किंस्तुघ्नमाद्ये प्रतिपद्दले च ।।

।। अथ नक्षत्रनामानि ।।
अश्विनी भरणी चैव कृत्तिका रोहिणी तथा ।
मृगशीर्षस्तथाऽऽर्द्रा च पुनर्वसुरत: परम् ।।
पुष्याश्लेषामघा प्रोक्ता: पूर्वाचोत्तरफाल्गुनी ।
हस्ताश्चित्रा तथा स्वाती विशाखा तदनन्तरम् ।
अनुराधा तथा ज्येष्ठा मूलभं च तत: परम् ।।
पूर्वषाढोत्तराषाढाऽभिजिच्च श्रवणस्तत: ।
धनिष्ठा च ततो ज्ञेया शततारस्तत: परम् ।।
पूर्वाभाद्रपदा प्रोक्ता ततश्चोत्तरभाद्रकम् ।।
रेवती चेति भानां हि नामानि कथितानि च ।
सप्तविंशतिसंख्याकं सदसत्फलहेतवे ।।

।। अथ ग्रहस्यनाम ज्ञेयम् ।।
रविश्चन्द्र: कुजश्चैव बुधश्चैव गुरुस्तथा ।
शुक्र: शनैश्चरश्चैव राहु: केतुर्यथाक्रमम् ।।

।। अथ राशय: ।।
मेषो वृषोऽथ मिथुनं कर्क: सिंहश्च कन्यका ।
तौलिश्छ वृश्चिकश्चैव धनुर्मकर एव च ।।
कुम्भमीनौ क्रमादेते राशय: परिकीर्तिता: ।
मेषाद्या विषमा क्रुरा: वृषाद्यश्च समा: शुभा: ।।
।। अथ नक्षत्रचरणवशेन राशीज्ञानम् ।।
एकैकस्मिश्च नक्षत्रे चत्वारश्चरणा: स्मृता: ।।
नक्षत्राभ्यां सपादाभ्यां क्रमाद् द्वादश राशय: ।।

।। अथ योगिन्या दशाक्रम: ।।
मंगला पिंगला धान्या भ्रामरी भद्रिका तथा ।

उल्का सिद्धा संकटा च योगिन्यष्टौ प्रकीर्तिता: ।।
।।अथाऽष्टोत्तरी विंशोत्तरी दशा निर्णय ।।
दशाप्यष्टोत्तरी शुक्ले कृष्णे विंशोत्तरी मता ।
दशा विंशोत्तरी चात्र ग्राह्या नष्टोत्तरी यथा ।।
कृष्णपक्षे दिवाजात: शुक्लपक्षे यदा निशि ।
विंशोत्तरी दशा प्रोक्ताsन्यत्राप्यष्टोत्तरी स्मृता ।।
गुर्जरे कच्छसौराष्ट्रे नेपाले सिंधुपर्वते ।
एतेष्वष्टोत्तरी श्रेष्ठाsन्यत्र विंशोत्तरी मता ।।
विंशोत्तरशतं पूर्णमायु: पूर्वमुदाहृतम् ।
कलौ विंशोत्तरी तस्माद् दशा मुख्या द्विजोत्तम ।।

सङ्कलन- डा केशव शरण
मिति- २०७६/०४/१० गते शुक्रवार